मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २, ऋक् ६

संहिता

उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।
ब॒र्हि॒षदा॑ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये॑ सुवि॒ताय॑ श्रयेताम् ॥

पदपाठः

उ॒त । योष॑णे॒ इति॑ । दि॒व्ये इति॑ । म॒ही इति॑ । नः॒ । उ॒षसा॒नक्ता॑ । सु॒दुघा॑ऽइव । धे॒नुः ।
ब॒र्हि॒ऽसदा॑ । पु॒रु॒हू॒ते इति॑ पु॒रु॒ऽहू॒ते । म॒घोनी॒ इति॑ । आ । य॒ज्ञिये॒ इति॑ । सु॒वि॒ताय॑ । श्र॒ये॒ता॒म् ॥

सायणभाष्यम्

उतापिच योषणे युवत्यौ स्त्रीरूपे वा दिव्ये दिविभवे मही महत्यौ बर्हिषदा बर्हिषि सीदन्त्यौ पुरुहूते बहुभिः स्तुते मघोनी धनवत्यौ यज्ञियेयज्ञार्हे उषासानक्ता अहोरात्रे सुदुघेव धेनुः कामधुग्धेनुरिव नोस्मान् सुविताय कल्याणाय आश्रयेताम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः