मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २, ऋक् ७

संहिता

विप्रा॑ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये॑ वां जा॒तवे॑दसा॒ यज॑ध्यै ।
ऊ॒र्ध्वं नो॑ अध्व॒रं कृ॑तं॒ हवे॑षु॒ ता दे॒वेषु॑ वनथो॒ वार्या॑णि ॥

पदपाठः

विप्रा॑ । य॒ज्ञेषु॑ । मानु॑षेषु । का॒रू इति॑ । मन्ये॑ । वा॒म् । जा॒तऽवे॑दसा । यज॑ध्यै ।
ऊ॒र्ध्वम् । नः॒ । अ॒ध्व॒रम् । कृ॒त॒म् । हवे॑षु । ता । दे॒वेषु॑ । व॒न॒थः॒ । वार्या॑णि ॥

सायणभाष्यम्

हे दैव्यौ होतारौ विप्रा मेधाविनौ जातवेदसा जातधनौ मानुषेषु मनुष्यैः क्रियमाणेषु यज्ञेषु कारू कर्मणां कर्तारौ वां युवां यजध्यै यष्टुं मन्येस्तौमि । किं च हवेषु हवनेषु स्तोत्रेषु सत्सु नोस्माकमध्वरमकुटिलं यज्ञं ऊर्ध्वं देवाभिमुखं कृतं कुरुतम् । च उपिच ता तौ युवां देवेषु विद्यमानानिवार्याणि धनानि वनथः संभजथः तान्यस्मभ्यं संप्रयच्छथइत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः