मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २, ऋक् १०

संहिता

वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति ।
सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥

पदपाठः

वन॑स्पते । अव॑ । सृ॒ज॒ । उप॑ । दे॒वान् । अ॒ग्निः । ह॒विः । श॒मि॒ता । सू॒द॒या॒ति॒ ।
सः । इत् । ऊं॒ इति॑ । होता॑ । स॒त्यऽत॑रः । य॒जा॒ति॒ । यथा॑ । दे॒वाना॑म् । जनि॑मानि । वेद॑ ॥

सायणभाष्यम्

हे वनस्पते देवानुपावसृज । अथ परोक्षस्तुतिः अग्निर्वनस्पतिः शमिता शामित्ररूपःसन् हविः सूदयाति प्रेरयतु सेत् सएव वनस्पतिः होता देवानामाह्वाता सत्यतरोपिसन् यजाति यजतु देवानां जनिमानि जननानि यथा स्वयं वेद तथा ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः