मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २, ऋक् ११

संहिता

आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभि॑ः ।
ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥

पदपाठः

आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । तु॒रेभिः॑ ।
ब॒र्हिः । नः॒ । आ॒स्ता॒म्् । अदि॑तिः । सु॒ऽपु॒त्रा । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥

सायणभाष्यम्

हे अग्ने समिधान समिध्यमानः अर्वाङ्स्मदभिमुखस्त्वं इन्द्रेण तुरेभिः त्वरितैर्देवैश्च सरथं समानरथं यथा भवति तथा आयाहि आगच्छ नोस्माकं बर्हिरध्यास्ताम् । अदितिश्च सुपुत्राः कल्याणपुत्राः स्वाहा देवाश्च् सर्वे अमृताः सन्तोमादयन्तामिति ॥ ११ ॥

अग्निंवोदेवमिति दशर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं अत्रेयमनुक्रमणिका-अग्निंवोदशेति अग्निंवोदेवमित्येतदादीनि दशसूक्तानि तृतीयचतुर्थवर्जितानि प्रातरनुवाके आग्नेये क्रतौ त्रैष्टुभे छन्दसि आश्विनशस्त्रे च विनियुक्तानि सूत्रितंच-अग्निंवोदेवमिति दशानां तृतीयचतुर्थेउद्धरेदिति । व्युह्ळे दशरात्रेष्टमेहनीदं सूक्तं आज्यशस्त्रं सूत्र्यते हि-द्वितीयस्याग्निंवोदेवमित्याज्यमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः