मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३, ऋक् १

संहिता

अ॒ग्निं वो॑ दे॒वम॒ग्निभि॑ः स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वम् ।
यो मर्त्ये॑षु॒ निध्रु॑विरृ॒तावा॒ तपु॑र्मूर्धा घृ॒तान्न॑ः पाव॒कः ॥

पदपाठः

अ॒ग्निम् । वः॒ । दे॒वम् । अ॒ग्निऽभिः॑ । स॒ऽजोषाः॑ । यजि॑ष्ठम् । दू॒तम् । अ॒ध्व॒रे । कृ॒णु॒ध्व॒म् ।
यः । मर्त्ये॑षु । निऽध्रु॑विः । ऋ॒तऽवा॑ । तपुः॑ऽमूर्धा । घृ॒तऽअ॑न्नः । पा॒व॒कः ॥

सायणभाष्यम्

हेदेवाः वो यूयं देवं द्योतमानं अग्निभिरन्यैरग्निभिः सजोषाः सजोषसं सहितं द्वितीयार्थे प्रथमा यजिष्ठं यष्टृतममग्निं अध्वरे कौटिल्यरहिते यज्ञे दूतं कृणुध्वं कुरुत योग्निर्देवोपिसन् मर्त्येषु निध्रुविः नितरां ध्रुवस्तिष्ठति ऋतावा यज्ञवान् सत्यवान् वा तपुर्मूर्धा तापकतेजाः घृतान्नः पावकः शोधकश्च भवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः