मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३, ऋक् २

संहिता

प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् ।
आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥

पदपाठः

प्रोथ॑त् । अश्वः॑ । न । यव॑से । अ॒वि॒ष्यन् । य॒दा । म॒हः । स॒म्ऽवर॑णात् । वि । अस्था॑त् ।
आत् । अ॒स्य॒ । वातः॑ । अनु॑ । वा॒ति॒ । शो॒चिः । अध॑ । स्म॒ । ते॒ । व्रज॑नम् । कृ॒ष्णम् । अ॒स्ति॒ ॥

सायणभाष्यम्

यवसे घासे अविष्यन् भक्षयन् प्रोथत् शद्बं कुर्वन् संचरन्वा अश्वोन अश्वइव महोमहतः संवरणान्निरोधात् दावरूपोग्निः यदा व्यस्थात् सततेषु वृक्षेषु वितिष्ठते आत् तदा अस्याग्नेः शोचिरर्चिरनुवातो वाति । अथ प्रत्यक्षस्तुतिः अधअनन्तरं हे अग्ने ते तव व्रजनं वर्त्म कृष्णमस्ति भवति स्मेतिपूरणः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः