मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३, ऋक् ४

संहिता

वि यस्य॑ ते पृथि॒व्यां पाजो॒ अश्रे॑त्तृ॒षु यदन्ना॑ स॒मवृ॑क्त॒ जम्भै॑ः ।
सेने॑व सृ॒ष्टा प्रसि॑तिष्ट एति॒ यवं॒ न द॑स्म जु॒ह्वा॑ विवेक्षि ॥

पदपाठः

वि । यस्य॑ । ते॒ । पृ॒थि॒व्याम् । पाजः॑ । अश्रे॑त् । तृ॒षु । यत् । अन्ना॑ । स॒म्ऽअवृ॑क्त । जम्भैः॑ ।
सेना॑ऽइव । सृ॒ष्टा । प्रऽसि॑तिः । ते॒ । ए॒ति॒ । यव॑म् । न । द॒स्म॒ । जु॒ह्वा॑ । वि॒वे॒क्षि॒ ॥

सायणभाष्यम्

हे अग्ने यस्य दावरूपस्य ते तव पाजस्तेजः पृथिव्यां भूम्यां तृषु क्षिप्रं व्यश्रेत् विश्रयति यद्यदा अन्नानि काष्ठादीनि ज्ंभैर्दन्तैः ज्वालाभिरित्यर्थःसमवृक्त वृंक्ते खादति तथा सेनेव सृष्टा उद्युक्ता ते तव प्रसितिर्ज्वाला एति गच्छति । दस्म हे दर्शनीयाग्ने त्वं यवंन यवमिव जुह्वा ज्वालयाविवेक्षि काष्ठादीनि भक्षयसि व्याप्नोषि वा ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः