मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३, ऋक् ५

संहिता

तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयन्त॒ नरः॑ ।
नि॒शिशा॑ना॒ अति॑थिमस्य॒ योनौ॑ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्ण॑ः ॥

पदपाठः

तम् । इत् । दो॒षा । तम् । उ॒षसि॑ । यवि॑ष्ठम् । अ॒ग्निम् । अत्य॑म् । न । म॒र्ज॒य॒न्त॒ । नरः॑ ।
नि॒ऽशिशा॑नाः । अति॑थिम् । अ॒स्य॒ । योनौ॑ । दी॒दाय॑ । शो॒चिः । आऽहु॑तस्य । वृष्णः॑ ॥

सायणभाष्यम्

यविष्ठं युवतमं अतिथिं अतिथिवत्पूज्यं तमित् तमेवाग्निं दोषा दोषायां रात्रौउषसि वासरेपि तमेवास्याग्नेर्योनौ स्थाने आवहनीयायतने धिष्ण्ये वा निशिशानाः दीपयन्तो नरो मनुष्याः अत्यं सततगमनयुक्तं वोढारमश्वमिव मर्जयन्त परिचरन्ति । आहूतस्य च वृष्णः कामानां वर्षितुरग्नेस्तस्य शोचिर्ज्वाला दीदाय दीप्यते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः