मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३, ऋक् ६

संहिता

सु॒सं॒दृक्ते॑ स्वनीक॒ प्रती॑कं॒ वि यद्रु॒क्मो न रोच॑स उपा॒के ।
दि॒वो न ते॑ तन्य॒तुरे॑ति॒ शुष्म॑श्चि॒त्रो न सूर॒ः प्रति॑ चक्षि भा॒नुम् ॥

पदपाठः

सु॒ऽस॒न्दृक् । ते॒ । सु॒ऽअ॒नी॒क॒ । प्रती॑कम् । वि । यत् । रु॒क्मः । न । रोच॑से । उ॒पा॒के ।
दि॒वः । न । ते॒ । त॒न्य॒तुः । ए॒ति॒ । शुष्मः॑ । चि॒त्रः । न । सूरः॑ । प्रति॑ । च॒क्षि॒ । भा॒नुम् ॥

सायणभाष्यम्

स्वनीक हेसुतेजस्काग्ने यद्यदा रुक्मोन सूर्यइव सुवर्णमिव वा उपाके अन्तिके विरोचसे विशेषेण दीप्यसे तदा ते तव प्रतीकं रूपमंगंवा सुसंदृक् सुसंदर्शनं भवति । किं च ते तव शुष्मो दिवोन्तरिक्षात् तन्यतुर्न अशनिरिव एति निर्गच्छति । चित्रोदर्शनीयः सूरोन् सूर्यइव भानुं स्वां दीप्तीं प्रतिचक्षि प्रदर्शयसि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः