मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३, ऋक् ७

संहिता

यथा॑ व॒ः स्वाहा॒ग्नये॒ दाशे॑म॒ परीळा॑भिर्घृ॒तव॑द्भिश्च ह॒व्यैः ।
तेभि॑र्नो अग्ने॒ अमि॑तै॒र्महो॑भिः श॒तं पू॒र्भिराय॑सीभि॒र्नि पा॑हि ॥

पदपाठः

यथा॑ । वः॒ । स्वाहा॑ । अ॒ग्नये॑ । दाशे॑म । परि॑ । इळा॑भिः । घृ॒तव॑त्ऽभिः । च॒ । ह॒व्यैः ।
तेभिः॑ । नः॒ । अ॒ग्ने॒ । अमि॑तैः । महः॑ऽभिः । श॒तम् । पूः॒ऽभिः । आय॑सीभिः । नि । पा॒हि॒ ॥

सायणभाष्यम्

हे अग्ने अग्नये अग्नस्य नेत्रे वः तुभ्यं स्वाहा स्वाहुतं हविः किं च यथा वयमिळाभिः गोविकारैः क्षीरादिभिः घृतवद्भिः घृतसहितैः हव्यैः पुरोडाशादिभिश्च दाशेम परिचरेम । तथा त्वमपि तेभिः प्रसिद्धैः अमितैः अपरिमितैः महोभिस्तेजोभिः शतमपरिमिताभिः आयसीभि- र्हिरण्मयीभिः रुक्मं अयइति हिरण्यनामसु पाठात् पूर्भिर्नगरीभिरेव नोस्मान् निपाहि नितरां रक्ष ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः