मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३, ऋक् ८

संहिता

या वा॑ ते॒ सन्ति॑ दा॒शुषे॒ अधृ॑ष्टा॒ गिरो॑ वा॒ याभि॑र्नृ॒वती॑रुरु॒ष्याः ।
ताभि॑र्नः सूनो सहसो॒ नि पा॑हि॒ स्मत्सू॒रीञ्ज॑रि॒तॄञ्जा॑तवेदः ॥

पदपाठः

याः । वा॒ । ते॒ । सन्ति॑ । दा॒शुषे॑ । अधृ॑ष्टाः । गिरः॑ । वा॒ । याभिः॑ । नृ॒ऽवतीः॑ । उ॒रु॒ष्याः ।
ताभिः॑ । नः॒ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नि । पा॒हि॒ । स्मत् । सू॒रीन् । ज॒रि॒तॄन् । जा॒त॒ऽवे॒दः॒ ॥

सायणभाष्यम्

सहसःसूनो हे बलस्यपुत्र जातवेदाग्ने दाशुषे दाशुषस्ते तव यावा याश्च ज्वालाः सन्ति अधृष्टाः रक्षोभिरप्रधृषिताः गिरोवा गिरंश्च सन्ति याभिर्गीर्भिर्नृवतीः पुत्रवतीः प्रजा उरुष्याः रक्षेः ताभिरुभयीभिर्नोस्मान् स्मदिति प्रशस्तवचनः प्रशस्तान् सूरीन् हविषां प्रेरकान् जरि- तॄन् स्तोतॄंश्च निपाहि नितरां रक्ष ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः