मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३, ऋक् ९

संहिता

निर्यत्पू॒तेव॒ स्वधि॑ति॒ः शुचि॒र्गात्स्वया॑ कृ॒पा त॒न्वा॒३॒॑ रोच॑मानः ।
आ यो मा॒त्रोरु॒शेन्यो॒ जनि॑ष्ट देव॒यज्या॑य सु॒क्रतु॑ः पाव॒कः ॥

पदपाठः

निः । यत् । पू॒ताऽइ॑व । स्वऽधि॑तिः । शुचिः॑ । गात् । स्वया॑ । कृ॒पा । त॒न्वा॑ । रोच॑मानः ।
आ । यः । मा॒त्रोः । उ॒शेन्यः॑ । जनि॑ष्ट । दे॒व॒ऽयज्या॑य । सु॒ऽक्रतुः॑ । पा॒व॒कः ॥

सायणभाष्यम्

यद्यदा शुचिरग्निः स्वया स्वकीयया तन्वा ततया कृपा कृपया दीप्त्या रोचमानः पूतेवस्वधितिः तीक्ष्णीकृता स्वधितिरिव निर्गात् काष्ठा- न्निर्गच्छति तदानीं देवयज्याय भवति तदेव विशदयति योग्निः रुशेन्यः कमनीयः सुक्रतुः सुकर्मा पावकः शोधकश्च मात्रोररण्योः आज- निष्ट आजायत सदेवयज्यायभवतीति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः