मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३, ऋक् १०

संहिता

ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम ।
विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ सन्तु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ए॒ता । नः॒ । अ॒ग्ने॒ । सौभ॑गा । दि॒दी॒हि॒ । अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । व॒ते॒म॒ ।
विश्वा॑ । स्तो॒तृऽभ्यः॑ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे अग्ने एता एतानि परिदृश्यमानानि सौभगा सौभगानि शोभनानि धनानि नोस्मभ्यं दिदीहि दीपय देहिवा अपि अपिच क्रतुं कर्म यज्ञानां कर्तारं वा सुचेतसं शोभनप्रज्ञायुक्तं सुप्रज्ञानं पुत्रं वा वतेम संभजेमहि । वनतेः संभजनार्थस्यवर्णान्तरागमेसतिरूपं विश्वा विश्वानि धनानि स्तोतृभ्य उद्गातृभ्यो गृणते शंसतेच सन्तु यूयं त्वत्परिवाराश्च सर्वे यूयं नोस्मान् स्वस्तिभिः क्षेमैः सदा सर्वदा पात रक्षत ॥ १० ॥

प्रवःशुक्रायेति दशर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं प्रवइत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तमध्ये द्वितीयेनोक्तः सूक्तविनियोगः । एकादशिनआग्नेयेपशौ प्रवः शुक्रायेत्येषा वपाया याज्या सूत्रितं च –प्रवःशुक्रायभानवेभरध्वंयथाविप्रस्यमनुषोहविर्भि- रिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः