मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४, ऋक् १

संहिता

प्र वः॑ शु॒क्राय॑ भा॒नवे॑ भरध्वं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तम् ।
यो दैव्या॑नि॒ मानु॑षा ज॒नूंष्य॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥

पदपाठः

प्र । वः॒ । शु॒क्राय॑ । भा॒नवे॑ । भ॒र॒ध्व॒म् । ह॒व्यम् । म॒तिम् । च॒ । अ॒ग्नये॑ । सुऽपू॑तम् ।
यः । दैव्या॑नि । मानु॑षा । ज॒नूंषि॑ । अ॒न्तः । विश्वा॑नि । वि॒द्मना॑ । जिगा॑ति ॥

सायणभाष्यम्

हे हविषां वोढारः वो यूयं शुक्राय शुभ्राय भानवे दीप्तायाग्नये सुपूतं सुशुद्धहव्यं मतिं स्तुतिं च प्रभरध्वं योग्निर्दैव्यानि मानुषा मानुषाणि च विश्वा विश्वानि जनूंषि जातानि अन्तरन्तरा विद्मना प्रज्ञानेन मार्गेण वा जिगाति गच्छति देवान् मनुष्यांश्चान्तराहवींषि नेतुं वर्त- तइत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः