मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४, ऋक् २

संहिता

स गृत्सो॑ अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒ अज॑निष्ट मा॒तुः ।
सं यो वना॑ यु॒वते॒ शुचि॑द॒न्भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ॥

पदपाठः

सः । गृत्सः॑ । अ॒ग्निः । तरु॑णः । चि॒त् । अ॒स्तु॒ । यतः॑ । यवि॑ष्ठः । अज॑निष्ट । मा॒तुः ।
सम् । यः । वना॑ । यु॒वते॑ । शुचि॑ऽदन् । भूरि॑ । चि॒त् । अन्ना॑ । सम् । इत् । अ॒त्ति॒ । स॒द्यः ॥

सायणभाष्यम्

सचित्सएव गृत्सो मेधावी तथा च यास्कः-गृत्स इतिमेधावि नाम अग्निस्तरुणस्तारकोभवति तदा यतोयदा मातुररण्याः यविष्ठो युवतमःसन् अजनिष्ट । योग्निः शुचिदन् दीप्तदन्तः वना वनानि संयुवते आत्मना संयोजयति । किं च भूरिचित् भूरीण्यपि अन्ना स्वीया- न्यन्नानि सद्यइत् सद्यएव समत्ति सम्यग्भक्षयति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः