मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४, ऋक् ५

संहिता

आ यो योनिं॑ दे॒वकृ॑तं स॒साद॒ क्रत्वा॒ ह्य१॒॑ग्निर॒मृताँ॒ अता॑रीत् ।
तमोष॑धीश्च व॒निन॑श्च॒ गर्भं॒ भूमि॑श्च वि॒श्वधा॑यसं बिभर्ति ॥

पदपाठः

आ । यः । योनि॑म् । दे॒वऽकृ॑तम् । स॒साद॑ । क्रत्वा॑ । हि । अ॒ग्निः । अ॒मृता॑न् । अता॑रीत् ।
तम् । ओष॑धीः । च॒ । व॒निनः॑ । च॒ । गर्भ॑म् । भूमिः॑ । च॒ । वि॒श्वऽधा॑यसम् । बि॒भ॒र्ति॒ ॥

सायणभाष्यम्

योग्निः देवकृतं देवैः कल्पितं योनिं स्थानं आससाद अध्यास्ते । किमर्थं देवाः स्थानं कल्पयन्त्यग्नेरित्यतआह हि यस्मात् कारणात् अग्निः क्रत्वा प्रज्ञया अमृतान् देवान् अतारीत् । विश्वधायसं विश्वस्य धारकं ओषधीरोषधयः वनिनश्च वृक्षाश्च गर्भं गर्भं सन्तं तं बिभ्रती भूमिश्च बिभर्ति श्रुतमेव बिभर्तीति पदं बहुवचनान्तया विपरिणतंसत् ओषधीभिः वनिभिश्च संबध्यते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः