मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४, ऋक् ७

संहिता

प॒रि॒षद्यं॒ ह्यर॑णस्य॒ रेक्णो॒ नित्य॑स्य रा॒यः पत॑यः स्याम ।
न शेषो॑ अग्ने अ॒न्यजा॑तम॒स्त्यचे॑तानस्य॒ मा प॒थो वि दु॑क्षः ॥

पदपाठः

प॒रि॒ऽसद्य॑म् । हि । अर॑णस्य । रेक्णः॑ । नित्य॑स्य । रा॒यः । पत॑यः । स्या॒म॒ ।
न । शेषः॑ । अ॒ग्ने॒ । अ॒न्यऽजा॑तम् । अ॒स्ति॒ । अचे॑तानस्य । मा । प॒थः । वि । दु॒क्षः॒ ॥

सायणभाष्यम्

अरणस्य अनृणस्य रेक्णो धनं परिषद्यं पर्याप्तं भवति । हि अतो नित्यस्यापुनर्देयस्य रयो धनस्य पतयःस्याम । यद्वा अरणस्य रेक्णो धनं परिषद्यं परिहर्तव्यं भवति अतो नित्यस्य औरसस्य रायः पुत्राख्यस्य धनस्य पतयः स्याम । हे अग्ने अन्यजातं अनौरमं शेषोपत्यं नास्ति नभवति । अचेतानस्य अविदुषः पथो मार्गान् पुत्रोत्पादनप्रमुखान् मार्गान् माविदुक्षः माविदुदुषः । दुषवैकृत्ये धातुः तथा च यास्कः- परिहर्तव्यंहिनोपसर्तव्यमरणस्य रेक्णे रणो पार्णो भवति रेक्णइति धननाम रिच्यते प्रयतो नित्यस्य रायः पतयः स्याम न शेषो अग्ने अन्यजातमस्ति शेष इत्यपत्यनामशिष्यते प्रयतो चेतयमानस्य तत्प्रमत्तस्य भवति मानः पथो विदुदुष इति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः