मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४, ऋक् ९

संहिता

त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् ।
सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथ॒ः सं र॒यिः स्पृ॑ह॒याय्य॑ः सह॒स्री ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । व॒नु॒ष्य॒तः । नि । पा॒हि॒ । त्वम् । ऊं॒ इति॑ । नः॒ । स॒ह॒सा॒ऽव॒न् । अ॒व॒द्यात् ।
सम् । त्वा॒ । ध्व॒स्म॒न्ऽवत् । अ॒भि । ए॒तु॒ । पाथः॑ । सम् । र॒यिः । स्पृ॒ह॒याय्यः॑ । स॒ह॒स्री ॥

सायणभाष्यम्

हे अग्ने त्वं वनुष्यतो हिंसकात् नोस्मान्निपाहि सहसावन् हे बलवन्नग्ने त्वमु त्वमेवाद्यात्पापात् च नोस्मान्निपाहि त्वा त्वां ध्वस्मन्वत् ध्वस्तदोषं पाथोन्नंहविः समभ्येतु सम्यक् प्राप्नोतु अपिचास्मान् स्पृहयाय्यः स्पृहणीयः सहस्त्री सहस्रसंख्याको रयिः अभ्येतु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः