मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४, ऋक् १०

संहिता

ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम ।
विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ सन्तु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ए॒ता । नः॒ । अ॒ग्ने॒ । सौभ॑गा । दि॒दी॒हि॒ । अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । व॒ते॒म॒ ।
विश्वा॑ । स्तो॒तृऽभ्यः॑ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

एषा ऋक् प्राक् व्याख्याता ॥ १० ॥

प्राग्नये तवस इति नवर्चं पंचमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वानराग्निदेवताकं तथाचानुक्रान्तं-प्राग्नये नव वैश्वानरीयं त्विति विनियोगो लैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः