मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५, ऋक् २

संहिता

पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिन्धू॑नां वृष॒भः स्तिया॑नाम् ।
स मानु॑षीर॒भि विशो॒ वि भा॑ति वैश्वान॒रो वा॑वृधा॒नो वरे॑ण ॥

पदपाठः

पृ॒ष्टः । दि॒वि । धायि॑ । अ॒ग्निः । पृ॒थि॒व्याम् । ने॒ता । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् ।
सः । मानु॑षीः । अ॒भि । विशः॑ । वि । भा॒ति॒ । वै॒श्वा॒न॒रः । व॒वृ॒धा॒नः । वरे॑ण ॥

सायणभाष्यम्

सिन्धूनां नदीनां नेता स्तियानां अपां स्तिया आपोभवन्ति स्त्यायनादिति यास्कवचनात् । वृषभो वर्षिता पृष्टोर्चितस्तेजसा संपृक्तो वा योग्निः दिव्यन्तरिक्षे पृथिव्यां च धायिन्यधायि । स वैश्वानरो विश्वनरहितोग्निः वरेण श्रेष्ठेन हविषा तेजसा वा वावृधानो वर्धमानःसन् मानुषीर्विशोभिमानुषीः प्रजाः प्रति विभाति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः