मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५, ऋक् ३

संहिता

त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि ।
वैश्वा॑नर पू॒रवे॒ शोशु॑चान॒ः पुरो॒ यद॑ग्ने द॒रय॒न्नदी॑देः ॥

पदपाठः

त्वत् । भि॒या । विशः॑ । आ॒य॒न् । असि॑क्नीः । अ॒स॒म॒नाः । जह॑तीः । भोज॑नानि ।
वैश्वा॑नर । पू॒रवे॑ । शोशु॑चानः । पुरः॑ । यत् । अ॒ग्ने॒ । द॒रय॑न् । अदी॑देः ॥

सायणभाष्यम्

हे वैश्वानर विश्वनसहिताग्ने त्वत् त्वत्तो भिया भीत्या असिक्रीः असितवर्णाः राजस्यः प्रथमार्थे द्वितीया विशः प्रजाः असमनाः परस्परमसमेताः भोजनानि धनानि जहतीः त्यजन्त्यः आयन् आगच्छन् । कदेत्यत आह यद्यदा पूरवे राज्ञे शोशुचानो दीप्यमानः पुरस्त- स्य शत्रूणां पुरो दरयन् दारयन् अदीदेः अज्वलः तथा च निगमः-अंहोराजन् वरिवःपूरवेकरिति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः