मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५, ऋक् ५

संहिता

त्वाम॑ग्ने ह॒रितो॑ वावशा॒ना गिरः॑ सचन्ते॒ धुन॑यो घृ॒ताची॑ः ।
पतिं॑ कृष्टी॒नां र॒थ्यं॑ रयी॒णां वै॑श्वान॒रमु॒षसां॑ के॒तुमह्ना॑म् ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । ह॒रितः॑ । वा॒व॒शा॒नाः । गिरः॑ । स॒च॒न्ते॒ । धुन॑यः । घृ॒ताचीः॑ ।
पति॑म् । कृ॒ष्टी॒नाम् । र॒थ्य॑म् । र॒यी॒णाम् । वै॒श्वा॒न॒रम् । उ॒षसा॑म् । के॒तुम् । अह्ना॑म् ॥

सायणभाष्यम्

हेअग्ने कृष्टीनां क्षितयः कृष्टय इति मनुष्यनामसु पाठात् पतिं स्वामिनं रयीणां धनानां रथ्यं नेतारं उषसामह्नां महान्तं केतुं प्रज्ञापकं वैश्वानरं विश्वनरहितं त्वां हरितोश्वाः वावशा नाः कामयमानाः सचन्ते सेवन्ते तथा गिरो नृणां स्तुतिरूपावाचः धुनयः पापं धुन्वानाः घृता चीः घृतमंचंत्यः हविषासहिता इत्यर्थः सचन्ते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः