मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५, ऋक् ६

संहिता

त्वे अ॑सु॒र्यं१॒॑ वस॑वो॒ न्यृ॑ण्व॒न्क्रतुं॒ हि ते॑ मित्रमहो जु॒षन्त॑ ।
त्वं दस्यूँ॒रोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या॑य ॥

पदपाठः

त्वे इति॑ । अ॒सु॒र्य॑म् । वस॑वः । नि । ऋ॒ण्व॒न् । क्रतु॑म् । हि । ते॒ । मि॒त्र॒ऽम॒हः॒ । जु॒षन्त॑ ।
त्वम् । दस्यू॑न् । ओक॑सः । अ॒ग्ने॒ । आ॒जः॒ । उ॒रु । ज्योतिः॑ । ज॒नय॑न् । आर्या॑य ॥

सायणभाष्यम्

हेमित्रमहः मित्राणां पूजयितरग्ने त्वे त्वयि वसवो वासकादेव असुर्यं बलं न्यृण्वन् न्यगमयन् । ते क्रतुं त्वत्प्रीतिकरं कर्म जुषन्त असेवन्त- हि । किं च त्वं आर्याय कर्मवते जनाय उरु ज्योतिः अधिकं तेजो जनयन् दस्यून् कर्महीनान् ओकसः स्थानात् आजः निरगमयः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः