मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५, ऋक् ८

संहिता

ताम॑ग्ने अ॒स्मे इष॒मेर॑यस्व॒ वैश्वा॑नर द्यु॒मतीं॑ जातवेदः ।
यया॒ राध॒ः पिन्व॑सि विश्ववार पृ॒थु श्रवो॑ दा॒शुषे॒ मर्त्या॑य ॥

पदपाठः

ताम् । अ॒ग्ने॒ । अ॒स्मे इति॑ । इष॑म् । आ । ई॒र॒य॒स्व॒ । वैश्वा॑नर । द्यु॒ऽमती॑म् । जा॒त॒ऽवे॒दः॒ ।
यया॑ । राधः॑ । पिन्व॑सि । वि॒श्व॒ऽवा॒र॒ । पृ॒थु । श्रवः॑ । दा॒शुषे॑ । मर्त्या॑य ॥

सायणभाष्यम्

हे जातवेदः जातप्रज्ञ वैश्वानर विश्वनरहिताग्ने तामिषं एषणीयां वृष्टिं द्युमतीं दीप्तिमतीं अस्मे अस्मभ्यं एरयस्व प्रेरयस्व । वृष्ट्या त्रैलोक्यं द्योतते हि । यद्वा यथा द्युमतीं तामिषमन्नमे रयस्व तथा च श्रूयते-तस्माद्यस्यैवैहभूयिष्ठमन्नंभवतिसएवभूयिष्ठंलोकेविराज- तीति । अथवा इषमेषणीयां तां द्युमतीं भास्वतीं दीप्तिमेरयस्व यया इषा रायो धनं पिन्वसि पालयसि अपि च हे विश्ववार विश्वै- र्वरणीयाग्ने पृथु विस्तीर्णं श्रवो यशः दाशुषे मर्त्याय यजमानाय पिन्वसि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः