मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५, ऋक् ९

संहिता

तं नो॑ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं॑ युवस्व ।
वैश्वा॑नर॒ महि॑ न॒ः शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषा॑ः ॥

पदपाठः

तम् । नः॒ । अ॒ग्ने॒ । म॒घव॑त्ऽभ्यः । पु॒रु॒ऽक्षुम् । र॒यिम् । नि । वाज॑म् । श्रुत्य॑म् । यु॒व॒स्व॒ ।
वैश्वा॑नर । महि॑ । नः॒ । शर्म॑ । य॒च्छ॒ । रु॒द्रेभिः॑ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ ॥

सायणभाष्यम्

हे अग्ने मघवड्मो धनवड्मः हविष्मड्मइत्यर्थः नोस्मभ्यं पुरुक्षुं बह्वन्नं बहुयशस्कं वा तं प्रसिद्धं रयिं श्रुत्यं श्रवणीयं वाजं बलं च नियुवस्व नितरां मिश्रयस्व । किं च हे वैश्वानर विश्वनरहिताग्ने त्वं रुद्रेभिः रुद्रैर्वसुभिश्च देवैः सजोषाः सहितश्चसन् नोस्मभ्यं महि महत् शर्म सुखं यच्छ प्रयच्छ ॥ ९ ॥

प्रसम्राज इति सप्तर्चं षष्ठं सूक्तं वसिष्ठस्यार्षं अनुक्रम्यते च-प्र्सम्राजः सप्त वैश्वानरीयं त्वित्युक्तत्वात् अस्यापि वैश्वानरोग्निर्देवता । विनियोगो लैङ्गिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः