मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६, ऋक् १

संहिता

प्र स॒म्राजो॒ असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य ।
इन्द्र॑स्येव॒ प्र त॒वस॑स्कृ॒तानि॒ वन्दे॑ दा॒रुं वन्द॑मानो विवक्मि ॥

पदपाठः

प्र । स॒म्ऽराजः॑ । असु॑रस्य । प्रऽश॑स्तिम् । पुं॒सः । कृ॒ष्टी॒नाम् । अ॒नु॒ऽमाद्य॑स्य ।
इन्द्र॑स्यऽइव । प्र । त॒वसः॑ । कृ॒तानि॑ । वन्दे॑ । दा॒रुम् । वन्द॑मानः । वि॒व॒क्मि॒ ॥

सायणभाष्यम्

दारुं पुरां भेत्तारं वन्दे वन्दमानःसन् सम्राजः सर्वस्य भुवनस्येशरस्य असुरस्य बलवतः पुंसो वीरस्य पौंस्यमिति वीर्यमुच्यते तथा च यास्कः-पुमान् पुरुमना भवति पुंसतेर्वेति । कृष्टीनां जनानां अनुमाद्यस्य स्तुत्यस्य तवसो बलवतइन्द्रस्येव तस्य वैश्वानरस्य प्रशस्तिं स्तुतिं कृतानि कर्माणि च प्रविवक्मि प्रब्रवीमि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः