मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६, ऋक् ४

संहिता

यो अ॑पा॒चीने॒ तम॑सि॒ मद॑न्ती॒ः प्राची॑श्च॒कार॒ नृत॑म॒ः शची॑भिः ।
तमीशा॑नं॒ वस्वो॑ अ॒ग्निं गृ॑णी॒षेऽना॑नतं द॒मय॑न्तं पृत॒न्यून् ॥

पदपाठः

यः । अ॒पा॒चीने॑ । तम॑सि । मद॑न्तीः । प्राचीः॑ । च॒कार॑ । नृऽत॑मः । शची॑भिः ।
तम् । ईशा॑नम् । वस्वः॑ । अ॒ग्निम् । गृ॒णी॒षे॒ । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् ॥

सायणभाष्यम्

नृतमो नेतृतमो योग्निः अपाचीने अप्रकाशमाने तमसि निमग्नाः प्रजाः मदन्तीः स्तुवन्तीः शचीभिस्ताभ्योदत्ताभिः प्रज्ञाभिः प्राचीः ऋजुगामिनिश्चकार । यद्वा नेतृतमो योग्निः अपाचीने तमसि निशायां मदन्तीर्माद्यन्तीरुषसः शचीभिः प्रज्ञाभिः प्राचीश्चकारेत्यर्थः । तं वस्वो धनस्येशानं अनानतमप्रह्वं पृतन्यून् युद्धकामांश्च दमयन्तमग्निं गृणीषे स्तौमि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः