मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६, ऋक् ५

संहिता

यो दे॒ह्यो॒३॒॑ अन॑मयद्वध॒स्नैर्यो अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ ।
स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निर्विश॑श्चक्रे बलि॒हृत॒ः सहो॑भिः ॥

पदपाठः

यः । दे॒ह्यः॑ । अन॑मयत् । व॒ध॒ऽस्नैः । यः । अ॒र्यऽप॑त्नीः । उ॒षसः॑ । च॒कार॑ ।
सः । नि॒ऽरुध्य॑ । नहु॑षः । य॒ह्वः । अ॒ग्निः । विशः॑ । च॒क्रे॒ । ब॒लि॒ऽहृतः॑ । सहः॑ऽभिः ॥

सायणभाष्यम्

योग्निर्देह्यो देही रुपचिता आसुरीर्विद्याः वधस्नैः वधैरायुधैर्वा अनमयत् हीना अकरोत् । यश्च अर्यः पत्नीः अर्यः सूर्यः पतिर्यासां ताः अर्य- पत्न्यः ता उषसश्चकार अकरोत् । स यह्वो महानग्निः विशः प्रजाः सहोभिः बलैः निरुध्य नहुषो राज्ञो बलिहृतः करप्रदाश्चक्रे ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः