मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६, ऋक् ६

संहिता

यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना॑स॒ एवै॑स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः ।
वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थ॑म् ॥

पदपाठः

यस्य॑ । शर्म॑न् । उप॑ । विश्वे॑ । जना॑सः । एवैः॑ । त॒स्थुः । सु॒ऽम॒तिम् । भिक्ष॑माणाः ।
वै॒श्वा॒न॒रः । वर॑म् । आ । रोद॑स्योः । आ । अ॒ग्निः । स॒सा॒द॒ । पि॒त्रोः । उ॒पऽस्थ॑म् ॥

सायणभाष्यम्

विश्वे सर्वे जनासो जनाः शर्मन् शर्मणि सुखनिमित्तं यस्य वैश्वानरस्य सुमतिं भिक्षमा णाः प्रार्थमानाः एवैः कर्मभिर्हविर्भिर्वा उपतस्थुः यमेवोपतिष्ठन्ते । सवैश्वानरो विशनरहितो ग्निः सूर्यः सन् पित्रोः मातापित्रोः रोदस्योः द्यावापृथिव्योः वरमुत्कृष्टं उपस्थं मध्यमन्तरिक्ष- माससाद आगच्छत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः