मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७, ऋक् १

संहिता

प्र वो॑ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं॑ हिषे॒ नमो॑भिः ।
भवा॑ नो दू॒तो अ॑ध्व॒रस्य॑ वि॒द्वान्त्मना॑ दे॒वेषु॑ विविदे मि॒तद्रु॑ः ॥

पदपाठः

प्र । वः॒ । दे॒वम् । चि॒त् । स॒ह॒सा॒नम् । अ॒ग्निम् । अश्व॑म् । न । वा॒जिन॑म् । हि॒षे॒ । नमः॑ऽभिः ।
भव॑ । नः॒ । दू॒तः । अ॒ध्व॒रस्य॑ । वि॒द्वान् । त्मना॑ । दे॒वेषु॑ । वि॒वि॒दे॒ । मि॒तऽद्रुः॑ ॥

सायणभाष्यम्

हेअग्ने वः त्वां देवं द्योतमानादिगुणयुक्तं सहसानं राक्षसानभिभवन्तं बलमाचरन्तं वा अग्निमग्रस्यनेतारं अश्वंन अश्वमिव वाजिनं वेगवन्तं बलवन्तं वा नमोभिः स्तुतिभिः हविर्भिर्वा प्रहिषे हे अग्ने त्वांचित् प्रहिणोम्येव । किं च हे अग्ने त्वं विद्वान् जानन् नोस्माकमध्वरस्य यज्ञस्य दूतो भव । अथ परोक्षस्तुतिः त्मना आत्मना स्वयमेव देवेषु मितद्रु दग्धद्रुमोग्निरिव विविदे प्रज्ञायते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०