मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७, ऋक् २

संहिता

आ या॑ह्यग्ने प॒थ्या॒३॒॑ अनु॒ स्वा म॒न्द्रो दे॒वानां॑ स॒ख्यं जु॑षा॒णः ।
आ सानु॒ शुष्मै॑र्न॒दय॑न्पृथि॒व्या जम्भे॑भि॒र्विश्व॑मु॒शध॒ग्वना॑नि ॥

पदपाठः

आ । या॒हि॒ । अ॒ग्ने॒ । प॒थ्याः॑ । अनु॑ । स्वाः । म॒न्द्रः । दे॒वाना॑म् । स॒ख्यम् । जु॒षा॒णः ।
आ । सानु॑ । शुष्मैः॑ । न॒दय॑न् । पृ॒थि॒व्याः । जम्भे॑भिः । विश्व॑म् । उ॒शध॑क् । वना॑नि ॥

सायणभाष्यम्

हे अग्ने त्वं मन्द्रो मदयिता स्तुत्योवा देवानां सख्यं देवैः सह सख्यमित्यर्थः । जुषाणः सेवमानः सन् पृथिव्याः सानु समुछ्रितं तृणगुल्मा- दिकं शुष्मे शोषकैर्दाहकैस्तेजोभिः नदयन् शब्दायमानः दह्यमानं हि शब्दायते जंभेभिर्दंष्ट्राभिर्ज्वालाभिरित्यर्थः । विश्वं विश्वानि वनानि उशधक् कामयमानो दहन् स्वाः पथ्या अनु स्वैर्मार्गैरित्यर्थः । आ आयाहि आकारस्य पुनर्वचनमादरार्थं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०