मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७, ऋक् ३

संहिता

प्रा॒चीनो॑ य॒ज्ञः सुधि॑तं॒ हि ब॒र्हिः प्री॑णी॒ते अ॒ग्निरी॑ळि॒तो न होता॑ ।
आ मा॒तरा॑ वि॒श्ववा॑रे हुवा॒नो यतो॑ यविष्ठ जज्ञि॒षे सु॒शेवः॑ ॥

पदपाठः

प्रा॒चीनः॑ । य॒ज्ञः । सुऽधि॑तम् । हि । ब॒र्हिः । प्री॒णी॒ते । अ॒ग्निः । ई॒ळि॒तः । न । होता॑ ।
आ । मा॒तरा॑ । वि॒श्ववा॑रे॒ इति॑ वि॒श्वऽवा॑रे । हु॒वा॒नः । यतः॑ । य॒वि॒ष्ठ॒ । ज॒ज्ञि॒षे । सु॒ऽशेवः॑ ॥

सायणभाष्यम्

अयं यज्ञः प्राचीनः सम्यगनुष्ठीयतइत्यर्थः । यद्वा यज्ञो यष्टा होता प्राचीनः यद्वा यज्ञो हविः प्राचीनः प्राचीनं प्राङ्मुखमासन्नं बर्हिर्हि बर्हिश्च सुधितं सुनिहितं ईळितः स्तुतोग्निः प्रीणीते तुप्तश्च भवति । होतान होताच नेतिचार्थे । विश्ववारे विश्वैवर्रणीये मातरा द्यावापृ- थिव्याविडायामाहुवानोभवति । कदेत्यतआह यतो यदा यविष्ठ हे युवतमाग्ने त्वं सुशेवः सुखोजज्ञिषेजायसे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०