मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७, ऋक् ४

संहिता

स॒द्यो अ॑ध्व॒रे र॑थि॒रं ज॑नन्त॒ मानु॑षासो॒ विचे॑तसो॒ य ए॑षाम् ।
वि॒शाम॑धायि वि॒श्पति॑र्दुरो॒णे॒३॒॑ऽग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ ॥

पदपाठः

स॒द्यः । अ॒ध्व॒रे । र॒थि॒रम् । ज॒न॒न्त॒ । मानु॑षासः । विऽचे॑तसः । यः । ए॒षा॒म् ।
वि॒शाम् । अ॒धा॒यि॒ । वि॒श्पतिः॑ । दु॒रो॒णे । अ॒ग्निः । म॒न्द्रः । मधु॑ऽवचाः । ऋ॒तऽवा॑ ॥

सायणभाष्यम्

विचेतसो विविक्तप्रज्ञाः मानुषासो मनुष्याः अध्वरे यज्ञे रथिरं रथिनं नेतारमग्निं सद्योजनंत जनयन्ति । य एषां हविर्वहति सोयमग्निर्वि- श्पतिः विशांपतिः विश्वस्य पतिर्वा मन्द्रो मदयिता मधुवचाः मादयितृवचस्कः ऋतवा यज्ञवान् विशां मनुष्याणां कुरोणे गृहे अधाहि आहितः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०