मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७, ऋक् ७

संहिता

नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नाम् ।
इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

नु । त्वाम् । अ॒ग्ने॒ । ई॒म॒हे॒ । वसि॑ष्ठाः । ई॒शा॒नम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वसू॑नाम् ।
इष॑म् । स्तो॒तृऽभ्यः॑ । म॒घव॑त्ऽभ्यः । आ॒न॒ट् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

सहसःसूनो बलस्यपुत्राग्ने वसिष्ठा वयं वसूनामीशानं त्वां अस्मदीयेभ्यः स्तोतृभ्यो मघवड्भ्यो हविष्मड्भ्यश्च इषमन्नं नु क्षिप्रं अद्य वा आनट् प्रापयेः । नशेर्व्याप्तिकर्मणोंतर्णीतण्यर्थाल्लुङि छन्दस्यपि दश्यते इत्यडागमः यूयं त्वत्परिवाराश्च सर्वे यूयं नोस्मान् सदा स्वस्ति- भिः पात इत्येवं ईमहे याचामहे ॥ ७ ॥

इन्धे राजेति सप्तर्चं अष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं इंधेराजेत्यनुक्रान्तम् । प्रातरनुवाका श्विनशस्त्रयोरुक्तोवियोगः । आतिथ्यायां प्रप्रायमग्निरिति स्विष्टकृतोयाज्या सूत्रितंचप्रप्रायमग्निर्भरतस्यश्रृण्वइति संयाज्ये इति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०