मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८, ऋक् १

संहिता

इ॒न्धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ ।
नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥

पदपाठः

इ॒न्धे । राजा॑ । सम् । अ॒र्यः । नमः॑ऽभिः । यस्य॑ । प्रती॑कम् । आऽहु॑तम् । घृ॒तेन॑ ।
नरः॑ । ह॒व्येभिः॑ । ई॒ळ॒ते॒ । स॒ऽबाधः॑ । आ । अ॒ग्निः । अग्रे॑ । उ॒षसा॑म् । अ॒शो॒चि॒ ॥

सायणभाष्यम्

राजा दीप्तः अर्यःस्वामी हविषां प्रेरकोवाग्निः नमोभिः स्तुतिभिः सह समिन्धे समिध्यते । यस्याग्नेः प्रतीकं रूपं घृतेनाहुतं भवति । यं च नरोस्मदीयाः सबाधः संश्लिष्टाः संजातबाधावा हव्येभिर्हव्यैः सार्धं ईळते स्तुवन्ति सोग्निरुषसामग्रे आ अशोचि आ दीप्यते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११