मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८, ऋक् ३

संहिता

कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः ।
क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो व॒न्तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥

पदपाठः

कया॑ । नः॒ । अ॒ग्ने॒ । वि । व॒सः॒ । सु॒ऽवृ॒क्तिम् । काम् । ऊं॒ इति॑ । स्व॒धाम् । ऋ॒ण॒वः॒ । श॒स्यमा॑नः ।
क॒दा । भ॒वे॒म॒ । पत॑यः । सु॒ऽद॒त्र॒ । रा॒यः । व॒न्तारः॑ । दु॒स्तर॑स्य । सा॒धोः ॥

सायणभाष्यम्

हे अग्ने त्वं कया स्वधया हविषा नोस्माकं सुवृक्तिं स्तुतिं विवसः व्याप्नुषे आच्छादयसिवा । कामु कांच स्वधां शस्यमानः स्तूयमानः त्वं ऋणवः प्राप्नुयाः हे सुदत्र शोभनदानाग्ने तथा च यास्कः-सुदत्रः कल्याणदानइति । वयं कदा दुष्टरस्य शत्रुभिः दुर्हिंसकस्य साधोःसमीची- नस्य रायो धनस्य पतयः स्वामिनो भवेम । वन्तारः संभक्तारश्च कदा भवेम ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११