मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८, ऋक् ५

संहिता

अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ।
स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं॑ सुजात ॥

पदपाठः

अस॑न् । इत् । त्वे इति॑ । आ॒ऽहव॑नानि । भूरि॑ । भुवः॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ।
स्तु॒तः । चि॒त् । अ॒ग्ने॒ । शृ॒ण्वि॒षे॒ । गृ॒णा॒नः । स्व॒यम् । व॒र्ध॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥

सायणभाष्यम्

हे अग्ने त्वे त्वयि आहवनानि हवींषि आहुतयोवा भूरि बहूनि असन्नित् भवन्त्येव । त्वं च विश्वेभिर्विश्वैरनीकैस्तेजोभिः त्वद्विभूतिभिः अग्निभिर्वा सह सुमनाः भुवोभव । हे अग्ने स्तुतश्चित् स्तोतुः स्तौतीतिस्तुत स्तोत्रं श्रृण्विषे श्रृणु हे सुजात कल्याण प्रादुर्भावाग्ने गृणानः स्तुयमानस्त्वं स्वयं स्वयमेव तन्वं स्वांतनुं मम तनुं वा वर्धस्व वर्धयस्व ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११