मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८, ऋक् ६

संहिता

इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हा॑ः ।
शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥

पदपाठः

इ॒दम् । वचः॑ । श॒त॒ऽसाः । सम्ऽस॑हस्रम् । उत् । अ॒ग्नये॑ । ज॒नि॒षी॒ष्ट॒ । द्वि॒ऽबर्हाः॑ ।
शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । द्यु॒ऽमत् । अ॒मी॒व॒ऽचात॑नम् । र॒क्षः॒ऽहा ॥

सायणभाष्यम्

शतसाः गवां शतस्य संभक्ता संसहस्रं गवां सहस्रेणच संयुतः द्विबर्हा द्वाभ्यां विद्याकर्मभ्यां बृहन् वसिष्ठाः द्वयोः स्थानयोर्द्युलोकयोः महान्वा तथा च यास्कः-द्विबर्हा द्वयोः स्थानयोः परिवृढइति । इदं वचः इदं स्तोत्रं अग्नये उज्जनिषीष्ट उदजीजनत् । किंतदित्यतआह यद्वचः द्युमत् दीप्तिमत् यशस्करमित्यर्थः अमीवचातनं रोगाणां निवारकं रक्षोहा रक्षसां हंतृ च स्तोतृभ्यः आपये तद्बंधवे पुत्रादिकायापि शं सुखदं भवाति भवेत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११