मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८, ऋक् ७

संहिता

नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नाम् ।
इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

नु । त्वाम् । अ॒ग्ने॒ । ई॒म॒हे॒ । वसि॑ष्ठाः । ई॒शा॒नम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वसू॑नाम् ।
इष॑म् । स्तो॒तृऽभ्यः॑ । म॒घव॑त्ऽभ्यः । आ॒न॒ट् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

इयमृक् प्रागेव व्याख्याता ॥ ७ ॥

अबोधिजारइति षळृचं नवमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं अबोधिषळित्यनुक्रान्तं प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तमध्ये उक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११