मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९, ऋक् १

संहिता

अबो॑धि जा॒र उ॒षसा॑मु॒पस्था॒द्धोता॑ म॒न्द्रः क॒वित॑मः पाव॒कः ।
दधा॑ति के॒तुमु॒भय॑स्य ज॒न्तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ॥

पदपाठः

अबो॑धि । जा॒रः । उ॒षसा॑म् । उ॒पऽस्था॑त् । होता॑ । म॒न्द्रः । क॒विऽत॑मः । पा॒व॒कः ।
दधा॑ति । के॒तुम् । उ॒भय॑स्य । ज॒न्तोः । ह॒व्या । दे॒वेषु॑ । द्रवि॑णम् । सु॒कृत्ऽसु॑ ॥

सायणभाष्यम्

जारः सर्वेषां प्राणिनां जरयिता होता देवानामाह्वाता मन्द्रो मदयिता स्तुत्योवा कवितमः प्राज्ञतमः पावकः शोधकोग्निः उषसामुप- स्थात् मध्ये अबोधि अबुध्यत । किं च उभयस्य द्विपदश्च चतुष्पदश्च दैव्यस्य मानुषस्यवा जन्तोः प्राणिनः केतुं प्रज्ञानं दधाति विदधाति । देवेषु च हव्या हव्यानि दधाति । सुकृत्सु यजमानेषु च द्रविणं धनं दधाति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२