मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९, ऋक् ६

संहिता

त्वाम॑ग्ने समिधा॒नो वसि॑ष्ठो॒ जरू॑थं ह॒न्यक्षि॑ रा॒ये पुरं॑धिम् ।
पु॒रु॒णी॒था जा॑तवेदो जरस्व यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वसि॑ष्ठः । जरू॑थम् । ह॒न् । यक्षि॑ । रा॒ये । पुर॑म्ऽधिम् ।
पु॒रु॒ऽनी॒था । जा॒त॒ऽवे॒दः॒ । ज॒र॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे अग्ने त्वां वसिष्ठऋषिः समिधानोभवति । त्वं च जरूथं परुषभाषिणं जरणीयं वा रक्षोगणं हन् जहि । राये धनवते यजमानाय पुरंधिं बहुधियं देवगणं तथा च यास्कः-पुरंधिर्बहुधीरिति यक्षि यज । किं च हे जातवेदोग्ने पुरुणीथा बहुनीथेन बहुना स्तोत्रेण जरस्व देवान् स्तुहि । यद्वा पुरुणीथानेकमार्गाणि रक्षांसि जरयेत्यर्थः ॥ ६ ॥

उषोनजारइति पञ्चर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं तथाचानुक्रान्तं उषोनपञ्चेति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२