मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०, ऋक् १

संहिता

उ॒षो न जा॒रः पृ॒थु पाजो॑ अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः ।
वृषा॒ हरि॒ः शुचि॒रा भा॑ति भा॒सा धियो॑ हिन्वा॒न उ॑श॒तीर॑जीगः ॥

पदपाठः

उ॒षः । न । जा॒रः । पृ॒थु । पाजः॑ । अ॒श्रे॒त् । दवि॑द्युतत् । दीद्य॑त् । शोशु॑चानः ।
वृषा॑ । हरिः॑ । शुचिः॑ । आ । भा॒ति॒ । भा॒सा । धियः॑ । हि॒न्वा॒नः । उ॒श॒तीः । अ॒जी॒ग॒रिति॑ ॥

सायणभाष्यम्

अग्निः उषोन जारः उषसोजारः सूर्यः तद्वत् पृथु विस्तीर्णं पाजस्तेजः अश्रेत् श्रयति । किं च दविद्युतत् दीद्यत शोशुचानइति त्रयोपिशब्दा यद्यपि दीप्तिकर्माणः तथापि दीप्तेर्भूयस्त्वज्ञा पनाय प्रयुक्ताइति न पुनरुक्तिः अत्यन्तं दीप्यमानइत्यर्थः । वृषा कामानां वर्षिता इरिर्हवि- षा प्रेरकः शुचिः शुद्धिकृदग्निः धियः कर्माणि हिन्वानः प्रेरयन् भासा दीप्त्या आभाति प्रकाशते । अपि च उशतीः कामयमानाः अजीगः जागरयति तमसा तिरोहिताः प्रजाः उद्गिरतिवा ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३