मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०, ऋक् २

संहिता

स्व१॒॑र्ण वस्तो॑रु॒षसा॑मरोचि य॒ज्ञं त॑न्वा॒ना उ॒शिजो॒ न मन्म॑ ।
अ॒ग्निर्जन्मा॑नि दे॒व आ वि वि॒द्वान्द्र॒वद्दू॒तो दे॑व॒यावा॒ वनि॑ष्ठः ॥

पदपाठः

स्वः॑ । न । वस्तोः॑ । उ॒षसा॑म् । अ॒रो॒चि॒ । य॒ज्ञम् । त॒न्वा॒नाः । उ॒शिजः॑ । न । मन्म॑ ।
अ॒ग्निः । जन्मा॑नि । दे॒वः । आ । वि । वि॒द्वान् । द्र॒वत् । दू॒तः । दे॒व॒ऽयावा॑ । वनि॑ष्ठः ॥

सायणभाष्यम्

अग्नेः वस्तोरहनि वस्तोः द्युरित्यहर्नामसुपाठात् उषसामग्ने स्वर्णआदित्यइव तथा च यास्कः-स्वरादित्योभवति सुअरणः सुईरणइति । अरोचि दीप्यते उशिजोन ऋत्विजश्च यज्ञं तन्वानाः विस्तारयन्तः मन्म मन्मानि मननीयानि स्तोत्राणि पठंतीतिशेषः । नेति संप्रत्यर्थे अपि च विद्वान् जानन् दूतो देवानां देवयावा देवान् देवान् प्रतिगच्छन् वनिष्ठो दातृतमोग्निः विआद्रवत् विविधमाद्रवति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३