मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०, ऋक् ४

संहिता

इन्द्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त॑म् ।
आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रम् ॥

पदपाठः

इन्द्र॑म् । नः॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ । रु॒द्रम् । रु॒द्रेभिः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् ।
आ॒दि॒त्येभिः॑ । अदि॑तिम् । वि॒श्वऽज॑न्याम् । बृह॒स्पति॑म् । ऋक्व॑ऽभिः । वि॒श्वऽवा॑रम् ॥

सायणभाष्यम्

हे अग्ने वसुभिर्देवैः सजोषाः संगतस्त्वं नोस्मदर्थमिन्द्रमावह । रुद्रेभिः रुद्रैः देवैः सङ्गतो बृहन्तं महान्तं रुद्रं चावह । आदित्येभिरादित्यै- र्देवैः संगतो विश्वजन्यां विश्वजनहितां अदितिं चावह ऋक्वभिः स्तुत्यैरङ्गिरोभिर्देवैः संगतो विश्ववारं विश्वैः संभजनीयं बृहस्पतिं चा- वह ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३