मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ११, ऋक् १

संहिता

म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयन्ते ।
आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥

पदपाठः

म॒हान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः । न । ऋ॒ते । त्वत् । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ ।
आ । विश्वे॑भिः । स॒रथ॑म् । या॒हि॒ । दे॒वैः । नि । अ॒ग्ने॒ । होता॑ । प्र॒थ॒मः । स॒द॒ । इ॒ह ॥

सायणभाष्यम्

हे अग्ने त्वमध्वरस्य प्रकेतः प्रज्ञापकःसन् महानसि त्वदृते त्वयाविना अमृताः देवाः न मादयन्ते नमाद्यन्ति विश्वेभिः विश्वैर्देवैः सरथं यथा भवति आयाहि च इहास्तीर्णे बर्हिषि प्रथमो मुख्यो होता आह्वातासन् निषद निषीदच ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४