मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ११, ऋक् ३

संहिता

त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अ॒न्तर्दा॒शुषे॒ मर्त्या॑य ।
म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥

पदपाठः

त्रिः । चि॒त् । अ॒क्तोः । प्र । चि॒कि॒तुः॒ । वसू॑नि । त्वे इति॑ । अ॒न्तः । दा॒शुषे॑ । मर्त्या॑य ।
म॒नु॒ष्वत् । अ॒ग्ने॒ । इ॒ह । य॒क्षि॒ । दे॒वान् । भव॑ । नः॒ । दू॒तः । अ॒भि॒श॒स्ति॒ऽपावा॑ ॥

सायणभाष्यम्

हे अग्ने त्वे त्वयि अन्तर्मध्ये अक्तोअह्नः यद्यपि अक्तुरिति रात्रेर्नाम तथाप्यत्र अज्यन्ते व्यज्यन्ते रूपादीन्यस्मिन्नित्यह्रोनाम त्रिस्त्रिवारं त्रिषु सवनेषु वसूनि हवींषि दाशुषे हविषां प्रदात्रे मर्त्याय मनुष्याय तदर्थमित्यर्थः प्रचिकितुः प्रवेदयन्ति ऋत्विजः । यद्वा अक्तोरह्नि त्रिः त्रीनग्निमश्वमजं च त्वय्यन्तर्निहितानि प्रचिकितुरविदन्नित्यर्थः । अपि च मनुष्वत् मनोरिव इह ममास्मिन्यज्ञे दूतस्त्वं देवान् यक्षि यज । नोस्माकमभिशस्तिपावा अभिशस्तेः अभिशंसकात् शात्रवात् पावा रक्षिता भव चिदिति पूरणः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४