मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ११, ऋक् ५

संहिता

आग्ने॑ वह हवि॒रद्या॑य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा॑दयन्ताम् ।
इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

आ । अ॒ग्ने॒ । व॒ह॒ । ह॒विः॒ऽअद्या॑य । दे॒वान् । इन्द्र॑ऽज्येष्ठासः । इ॒ह । मा॒द॒य॒न्ता॒म् ।
इ॒मम् । य॒ज्ञम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे अग्ने हविरघाय हविषां भरणाय देवान् आवह । किमर्थं इत्यतआह इहास्मिन् यज्ञे इन्द्रज्येष्ठास इन्द्रप्रमुखादेवाः मादयन्तां इमं यज्ञं इदं यष्टव्यं हविः दिविस्थितेषु देवेषु धेहि निधेहि देवान्वा इहानय इदं हविर्वा देवेषु नयेति भावः । अन्तिमः पादोव्याख्या- तचरः ॥ ५ ॥

अगन्ममहेति तृचात्मकं द्वादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं तथाचानुक्रान्तं अगन्मतृचमिति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोवि- नियोगः । व्यूह्ळे दशरात्रे नवमेहनि इदं सूक्तमा ज्यशस्त्रं सूत्रितंच-तृतीयस्यागन्ममहेंत्याज्यमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४