मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १२, ऋक् २

संहिता

स म॒ह्ना विश्वा॑ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः ।
स नो॑ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒त उ॒त नो॑ म॒घोनः॑ ॥

पदपाठः

सः । म॒ह्ना । विश्वा॑ । दुः॒ऽइ॒तानि॑ । सा॒ह्वान् । अ॒ग्निः । स्त॒वे॒ । दमे॑ । आ । जा॒तऽवे॑दाः ।
सः । नः॒ । र॒क्षि॒ष॒त् । दुः॒ऽइ॒तात् । अ॒व॒द्यात् । अ॒स्मान् । गृ॒ण॒तः । उ॒त । नः॒ । म॒घोनः॑ ॥

सायणभाष्यम्

योग्निर्मह्ना महत्त्वेन विश्वा विश्वानि दुरितानि सह्वान् अभिभवन् जातवेदाः जातधनो जातप्रज्ञोवा दमे यज्ञगृहे स्तवे अस्माभिः स्तूयते सोग्निरस्मान् दुरितात् पापात् अवद्यात् निंदिताच्च कर्मणोरक्षिषत् रक्षत् । अस्मान् गृणतः स्तुवतोपि रक्षिषत् । उतापिच सोग्निः नो मघोनो हविष्मतोरक्षिषत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५