मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १३, ऋक् २

संहिता

त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः ।
त्वं दे॒वाँ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । शो॒चिषा॑ । शोशु॑चानः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णाः॒ । जाय॑मानः ।
त्वम् । दे॒वान् । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । वैश्वा॑नर । जा॒त॒ऽवे॒दः॒ । म॒हि॒ऽत्वा ॥

सायणभाष्यम्

हे अग्ने त्वं शोचिषा दीप्त्या शोशुचानो दीप्यमानो जायमानो जायमानएव रोदसी द्यावापृथिव्यौ आ अपृणाः आपूरयः । अपि च जात- वेदो जातप्रज्ञ जातधनवा वैश्वानर विश्वनरहित हे अग्ने त्वं देवान् महित्वा महत्त्वेन अभिशस्तेः अभिशंसकात् शत्रोरमुंचः अमोचयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६