मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १३, ऋक् ३

संहिता

जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्य॑ः प॒शून्न गो॒पा इर्य॒ः परि॑ज्मा ।
वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

जा॒तः । यत् । अ॒ग्ने॒ । भुव॑ना । वि । अख्यः॑ । प॒शून् । न । गो॒पाः । इर्यः॑ । परि॑ऽज्मा ।
वैश्वा॑नर । ब्रह्म॑णे । वि॒न्द॒ । गा॒तुम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे अग्ने जातः सूर्यात्मनाजातः त्वं इर्य्यः स्वामी प्रेरयन्वा परिज्मा परितोगन्तासन् पशून्न गोपाः यथा गवां पालकः पशून् पश्यति तद्वत् । यद्यदा भुवना भूतानि व्यख्यः रक्षणार्थं पश्यसि तदा ब्रह्मणे ब्रह्मस्तोत्रं तदर्थं गातुं गतिं फलप्राप्तिं विंद । यद्वा ब्रह्मणे ब्राह्मणार्थं गातुं विन्द येन ब्रह्मणा उपद्रवान्निर्गच्छन्ति तं गातुं विन्देत्यर्थः । स्पष्टमन्यत् ॥ ३ ॥

समिधा जातवेदसइति त्रुचं चतुर्दशं सूक्तं वसिष्ठस्यार्षमाग्नेयम् आद्या बृहती द्वितीया तृतीये त्रिष्टुभौ तथाचानुक्रम्यते-समिधा बृहत्यादीति विनीयोगोलैङ्गिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६